रामायण, महाभारत, गीता, वेद तथा पुराण की कथाएं

श्री शिवानन्द लहरी

शिवानन्दलहरी आदि शंकराचार्य द्वारा विरचित शिव-स्तोत्र है। इसमें विभिन्न छन्दों के सौ श्लोक हैं। इसकी रचना आदि शंकर ने तब की थी जब वे श्रीशैलम में निवास कर रहे थे। यह मल्लिकार्जुन और भ्रमराम्बिका की स्तुति से आरम्भ होता है जो श्रीशैलम के अराध्य देवता हैं।

943

इस  स्त्रोत को आप यूट्यूब पर भी सुन सकते हैं

कलाभ्यां चूडालंकृत-शशि कलाभ्यां निज तपः-
फलाभ्यां भक्तेशु प्रकटित-फलाभ्यां भवतु मे ।
शिवाभ्यां-अस्तोक-त्रिभुवन शिवाभ्यां हृदि पुनर्-
भवाभ्यां आनंद स्फुर-दनुभवाभ्यां नतिरियम् ॥ 1 ॥

गलंती शंभो त्वच्-चरित-सरितः किल्बिश-रजो
दलंती धीकुल्या-सरणिशु पतंती विजयताम्
दिशंती संसार-भ्रमण-परिताप-उपशमनं
वसंती मच्-चेतो-हृदभुवि शिवानंद-लहरी 2

त्रयी-वेद्यं हृद्यं त्रि-पुर-हरं आद्यं त्रि-नयनं
जटा-भारोदारं चलद्-उरग-हारं मृग धरम्
महा-देवं देवं मयि सदय-भावं पशु-पतिं
चिद्-आलंबं सांबं शिवम्-अति-विडंबं हृदि भजे 3

सहस्रं वर्तंते जगति विबुधाः क्शुद्र-फलदा
न मन्ये स्वप्ने वा तद्-अनुसरणं तत्-कृत-फलम्
हरि-ब्रह्मादीनां-अपि निकट-भाजां-असुलभं
चिरं याचे शंभो शिव तव पदांभोज-भजनं 4

स्मृतौ शास्त्रे वैद्ये शकुन-कविता-गान-फणितौ
पुराणे मंत्रे वा स्तुति-नटन-हास्येशु-अचतुरः
कथं राज्नां प्रीतिर्-भवति मयि को(अ)हं पशु-पते
पशुं मां सर्वज्न प्रथित-कृपया पालय विभो 5

घटो वा मृत्-पिंडो-अपि-अणुर्-अपि च धूमो-अग्निर्-अचलः
पटो वा तंतुर्-वा परिहरति किं घोर-शमनम्
वृथा कंठ-क्शोभं वहसि तरसा तर्क-वचसा
पदांभोजं शंभोर्-भज परम-सौख्यं व्रज सुधीः 6

मनस्-ते पादाब्जे निवसतु वचः स्तोत्र-फणितौ
करौ च-अभ्यर्चायां श्रुतिर्-अपि कथाकर्णन-विधौ
तव ध्याने बुद्धिर्-नयन-युगलं मूर्ति-विभवे
पर-ग्रंथान् कैर्-वा परम-शिव जाने परम्-अतः 7

यथा बुद्धिः-शुक्तौ रजतं इति काचाश्मनि मणिर्-
जले पैश्टे क्शीरं भवति मृग-तृश्णासु सलिलम्
तथा देव-भ्रांत्या भजति भवद्-अन्यं जड जनो
महा-देवेशं त्वां मनसि च न मत्वा पशु-पते 8

गभीरे कासारे विशति विजने घोर-विपिने
विशाले शैले च भ्रमति कुसुमार्थं जड-मतिः
समर्प्यैकं चेतः-सरसिजं उमा नाथ भवते
सुखेन-अवस्थातुं जन इह न जानाति किम्-अहो 9

नरत्वं देवत्वं नग-वन-मृगत्वं मशकता
पशुत्वं कीटत्वं भवतु विहगत्वादि-जननम्
सदा त्वत्-पादाब्ज-स्मरण-परमानंद-लहरी
विहारासक्तं चेद्-हृदयं-इह किं तेन वपुशा 10

वटुर्वा गेही वा यतिर्-अपि जटी वा तदितरो
नरो वा यः कश्चिद्-भवतु भव किं तेन भवति
यदीयं हृत्-पद्मं यदि भवद्-अधीनं पशु-पते
तदीयस्-त्वं शंभो भवसि भव भारं च वहसि 11

गुहायां गेहे वा बहिर्-अपि वने वा(अ)द्रि-शिखरे
जले वा वह्नौ वा वसतु वसतेः किं वद फलम्
सदा यस्यैवांतःकरणम्-अपि शंबो तव पदे
स्थितं चॆद्-योगो(अ)सौ स च परम-योगी स च सुखी 12

असारे संसारे निज-भजन-दूरे जडधिया
भरमंतं माम्-अंधं परम-कृपया पातुं उचितम्
मद्-अन्यः को दीनस्-तव कृपण-रक्शाति-निपुणस्-
त्वद्-अन्यः को वा मे त्रि-जगति शरण्यः पशु-पते 13

प्रभुस्-त्वं दीनानां खलु परम-बंधुः पशु-पते
प्रमुख्यो(अ)हं तेशाम्-अपि किम्-उत बंधुत्वम्-अनयोः
त्वयैव क्शंतव्याः शिव मद्-अपराधाश्-च सकलाः
प्रयत्नात्-कर्तव्यं मद्-अवनम्-इयं बंधु-सरणिः 14

उपेक्शा नो चेत् किं न हरसि भवद्-ध्यान-विमुखां
दुराशा-भूयिश्ठां विधि-लिपिम्-अशक्तो यदि भवान्
शिरस्-तद्-वदिधात्रं न नखलु सुवृत्तं पशु-पते
कथं वा निर्-यत्नं कर-नख-मुखेनैव लुलितं 15

विरिन्चिर्-दीर्घायुर्-भवतु भवता तत्-पर-शिरश्-
चतुश्कं संरक्श्यं स खलु भुवि दैन्यं लिखितवान्
विचारः को वा मां विशद-कृपया पाति शिव ते
कटाक्श-व्यापारः स्वयम्-अपि च दीनावन-परः 16

फलाद्-वा पुण्यानां मयि करुणया वा त्वयि विभो
प्रसन्ने(अ)पि स्वामिन् भवद्-अमल-पादाब्ज-युगलम्
कथं पश्येयं मां स्थगयति नमः-संभ्रम-जुशां
निलिंपानां श्रेणिर्-निज-कनक-माणिक्य-मकुटैः 17

त्वम्-एको लोकानां परम-फलदो दिव्य-पदवीं
वहंतस्-त्वन्मूलां पुनर्-अपि भजंते हरि-मुखाः
कियद्-वा दाक्शिण्यं तव शिव मदाशा च कियती
कदा वा मद्-रक्शां वहसि करुणा-पूरित-दृशा 18

दुराशा-भूयिश्ठे दुरधिप-गृह-द्वार-घटके
दुरंते संसारे दुरित-निलये दुःख जनके
मदायासं किं न व्यपनयसि कस्योपकृतये
वदेयं प्रीतिश्-चेत् तव शिव कृतार्थाः खलु वयं 19

सदा मोहाटव्यां चरति युवतीनां कुच-गिरौ
नटत्य्-आशा-शाखास्-वटति झटिति स्वैरम्-अभितः
कपालिन् भिक्शो मे हृदय-कपिम्-अत्यंत-चपलं
दृढं भक्त्या बद्ध्वा शिव भवद्-अधीनं कुरु विभो 20

धृति-स्तंभाधारं दृढ-गुण निबद्धां सगमनां
विचित्रां पद्माढ्यां प्रति-दिवस-सन्मार्ग-घटिताम्
स्मरारे मच्चेतः-स्फुट-पट-कुटीं प्राप्य विशदां
जय स्वामिन् शक्त्या सह शिव गणैः-सेवित विभो 21

प्रलोभाद्यैर्-अर्थाहरण-पर-तंत्रो धनि-गृहे
प्रवेशोद्युक्तः-सन् भ्रमति बहुधा तस्कर-पते
इमं चेतश्-चोरं कथम्-इह सहे शन्कर विभो
तवाधीनं कृत्वा मयि निरपराधे कुरु कृपां 22

करोमि त्वत्-पूजां सपदि सुखदो मे भव विभो
विधित्वं विश्णुत्वं दिशसि खलु तस्याः फलम्-इति
पुनश्च त्वां द्रश्टुं दिवि भुवि वहन् पक्शि-मृगताम्-
अदृश्ट्वा तत्-खेदं कथम्-इह सहे शन्कर विभो 23

कदा वा कैलासे कनक-मणि-सौधे सह-गणैर्-
वसन् शंभोर्-अग्रे स्फुट-घटित-मूर्धान्जलि-पुटः
विभो सांब स्वामिन् परम-शिव पाहीति निगदन्
विधातृऋणां कल्पान् क्शणम्-इव विनेश्यामि सुखतः 24

स्तवैर्-ब्रह्मादीनां जय-जय-वचोभिर्-नियमानां
गणानां केलीभिर्-मदकल-महोक्शस्य ककुदि
स्थितं नील-ग्रीवं त्रि-नयनं-उमाश्लिश्ट-वपुशं
कदा त्वां पश्येयं कर-धृत-मृगं खंड-परशुं 25

कदा वा त्वां दृश्ट्वा गिरिश तव भव्यान्घ्रि-युगलं
गृहीत्वा हस्ताभ्यां शिरसि नयने वक्शसि वहन्
समाश्लिश्याघ्राय स्फुट-जलज-गंधान् परिमलान्-
अलभ्यां ब्रह्माद्यैर्-मुदम्-अनुभविश्यामि हृदये 26

करस्थे हेमाद्रौ गिरिश निकटस्थे धन-पतौ
गृहस्थे स्वर्भूजा(अ)मर-सुरभि-चिंतामणि-गणे
शिरस्थे शीतांशौ चरण-युगलस्थे(अ)खिल शुभे
कम्-अर्थं दास्ये(अ)हं भवतु भवद्-अर्थं मम मनः 27

सारूप्यं तव पूजने शिव महा-देवेति संकीर्तने
सामीप्यं शिव भक्ति-धुर्य-जनता-सांगत्य-संभाशणे
सालोक्यं च चराचरात्मक-तनु-ध्याने भवानी-पते
सायुज्यं मम सिद्धिम्-अत्र भवति स्वामिन् कृतार्थोस्म्यहं 28

त्वत्-पादांबुजम्-अर्चयामि परमं त्वां चिंतयामि-अन्वहं
त्वाम्-ईशं शरणं व्रजामि वचसा त्वाम्-एव याचे विभो
वीक्शां मे दिश चाक्शुशीं स-करुणां दिव्यैश्-चिरं प्रार्थितां
शंभो लोक-गुरो मदीय-मनसः सौख्योपदेशं कुरु 29

वस्त्रोद्-धूत विधौ सहस्र-करता पुश्पार्चने विश्णुता
गंधे गंध-वहात्मता(अ)न्न-पचने बहिर्-मुखाध्यक्शता
पात्रे कान्चन-गर्भतास्ति मयि चेद् बालेंदु चूडा-मणे
शुश्रूशां करवाणि ते पशु-पते स्वामिन् त्रि-लोकी-गुरो 30

नालं वा परमोपकारकम्-इदं त्वेकं पशूनां पते
पश्यन् कुक्शि-गतान् चराचर-गणान् बाह्यस्थितान् रक्शितुम्
सर्वामर्त्य-पलायनौशधम्-अति-ज्वाला-करं भी-करं
निक्शिप्तं गरलं गले न गलितं नोद्गीर्णम्-एव-त्वया 31

ज्वालोग्रः सकलामराति-भयदः क्श्वेलः कथं वा त्वया
दृश्टः किं च करे धृतः कर-तले किं पक्व-जंबू-फलम्
जिह्वायां निहितश्च सिद्ध-घुटिका वा कंठ-देशे भृतः
किं ते नील-मणिर्-विभूशणम्-अयं शंभो महात्मन् वद 32

नालं वा सकृद्-एव देव भवतः सेवा नतिर्-वा नुतिः
पूजा वा स्मरणं कथा-श्रवणम्-अपि-आलोकनं मादृशाम्
स्वामिन्न्-अस्थिर-देवतानुसरणायासेन किं लभ्यते
का वा मुक्तिर्-इतः कुतो भवति चेत् किं प्रार्थनीयं तदा 33

किं ब्रूमस्-तव साहसं पशु-पते कस्यास्ति शंभो भवद्-
धैर्यं चेदृशम्-आत्मनः-स्थितिर्-इयं चान्यैः कथं लभ्यते
भ्रश्यद्-देव-गणं त्रसन्-मुनि-गणं नश्यत्-प्रपन्चं लयं
पश्यन्-निर्भय एक एव विहरति-आनंद-सांद्रो भवान् 34

योग-क्शेम-धुरं-धरस्य सकलः-श्रेयः प्रदोद्योगिनो
दृश्टादृश्ट-मतोपदेश-कृतिनो बाह्यांतर-व्यापिनः
सर्वज्नस्य दया-करस्य भवतः किं वेदितव्यं मया
शंभो त्वं परमांतरंग इति मे चित्ते स्मरामि-अन्वहं 35

भक्तो भक्ति-गुणावृते मुद्-अमृता-पूर्णे प्रसन्ने मनः
कुंभे सांब तवान्घ्रि-पल्लव युगं संस्थाप्य संवित्-फलम्
सत्त्वं मंत्रम्-उदीरयन्-निज शरीरागार शुद्धिं वहन्
पुण्याहं प्रकटी करोमि रुचिरं कल्याणम्-आपादयन् 36

आम्नायांबुधिम्-आदरेण सुमनः-सन्घाः-समुद्यन्-मनो
मंथानं दृढ भक्ति-रज्जु-सहितं कृत्वा मथित्वा ततः
सोमं कल्प-तरुं सु-पर्व-सुरभिं चिंता-मणिं धीमतां
नित्यानंद-सुधां निरंतर-रमा-सौभाग्यम्-आतन्वते 37

प्राक्-पुण्याचल-मार्ग-दर्शित-सुधा-मूर्तिः प्रसन्नः-शिवः
सोमः-सद्-गुण-सेवितो मृग-धरः पूर्णास्-तमो-मोचकः
चेतः पुश्कर-लक्शितो भवति चेद्-आनंद-पाथो-निधिः
प्रागल्भ्येन विजृंभते सुमनसां वृत्तिस्-तदा जायते 38

धर्मो मे चतुर्-अन्घ्रिकः सुचरितः पापं विनाशं गतं
काम-क्रोध-मदादयो विगलिताः कालाः सुखाविश्कृताः
ज्नानानंद-महौशधिः सुफलिता कैवल्य नाथे सदा
मान्ये मानस-पुंडरीक-नगरे राजावतंसे स्थिते 39

धी-यंत्रेण वचो-घटेन कविता-कुल्योपकुल्याक्रमैर्-
आनीतैश्च सदाशिवस्य चरितांभो-राशि-दिव्यामृतैः
हृत्-केदार-युताश्-च भक्ति-कलमाः साफल्यम्-आतन्वते
दुर्भिक्शान्-मम सेवकस्य भगवन् विश्वेश भीतिः कुतः 40

पापोत्पात-विमोचनाय रुचिरैश्वर्याय मृत्युं-जय
स्तोत्र-ध्यान-नति-प्रदिक्शिण-सपर्यालोकनाकर्णने
जिह्वा-चित्त-शिरोन्घ्रि-हस्त-नयन-श्रोत्रैर्-अहं प्रार्थितो
माम्-आज्नापय तन्-निरूपय मुहुर्-मामेव मा मे(अ)वचः 41

गांभीर्यं परिखा-पदं घन-धृतिः प्राकार-उद्यद्-गुण
स्तोमश्-चाप्त-बलं घनेंद्रिय-चयो द्वाराणि देहे स्थितः
विद्या-वस्तु-समृद्धिर्-इति-अखिल-सामग्री-समेते सदा
दुर्गाति-प्रिय-देव मामक-मनो-दुर्गे निवासं कुरु 42

मा गच्च त्वम्-इतस्-ततो गिरिश भो मय्येव वासं कुरु
स्वामिन्न्-आदि किरात मामक-मनः कांतार-सीमांतरे
वर्तंते बहुशो मृगा मद-जुशो मात्सर्य-मोहादयस्-
तान् हत्वा मृगया-विनोद रुचिता-लाभं च संप्राप्स्यसि 43

कर-लग्न मृगः करींद्र-भन्गो
घन शार्दूल-विखंडनो(अ)स्त-जंतुः
गिरिशो विशद्-आकृतिश्-च चेतः
कुहरे पन्च मुखोस्ति मे कुतो भीः 44

चंदः-शाखि-शिखान्वितैर्-द्विज-वरैः संसेविते शाश्वते
सौख्यापादिनि खेद-भेदिनि सुधा-सारैः फलैर्-दीपिते
चेतः पक्शि-शिखा-मणे त्यज वृथा-सन्चारम्-अन्यैर्-अलं
नित्यं शन्कर-पाद-पद्म-युगली-नीडे विहारं कुरु 45

आकीर्णे नख-राजि-कांति-विभवैर्-उद्यत्-सुधा-वैभवैर्-
आधौतेपि च पद्म-राग-ललिते हंस-व्रजैर्-आश्रिते
नित्यं भक्ति-वधू गणैश्-च रहसि स्वेच्चा-विहारं कुरु
स्थित्वा मानस-राज-हंस गिरिजा नाथान्घ्रि-सौधांतरे 46

शंभु-ध्यान-वसंत-सन्गिनि हृदारामे(अ)घ-जीर्णच्चदाः
स्रस्ता भक्ति लताच्चटा विलसिताः पुण्य-प्रवाल-श्रिताः
दीप्यंते गुण-कोरका जप-वचः पुश्पाणि सद्-वासना
ज्नानानंद-सुधा-मरंद-लहरी संवित्-फलाभ्युन्नतिः 47

नित्यानंद-रसालयं सुर-मुनि-स्वांतांबुजाताश्रयं
स्वच्चं सद्-द्विज-सेवितं कलुश-हृत्-सद्-वासनाविश्कृतम्
शंभु-ध्यान-सरोवरं व्रज मनो-हंसावतंस स्थिरं
किं क्शुद्राश्रय-पल्वल-भ्रमण-संजात-श्रमं प्राप्स्यसि 48

आनंदामृत-पूरिता हर-पदांभोजालवालोद्यता
स्थैर्योपघ्नम्-उपेत्य भक्ति लतिका शाखोपशाखान्विता
उच्चैर्-मानस-कायमान-पटलीम्-आक्रम्य निश्-कल्मशा
नित्याभीश्ट-फल-प्रदा भवतु मे सत्-कर्म-संवर्धिता 49

संध्यारंभ-विजृंभितं श्रुति-शिर-स्थानांतर्-आधिश्ठितं
स-प्रेम भ्रमराभिरामम्-असकृत् सद्-वासना-शोभितम्
भोगींद्राभरणं समस्त-सुमनः-पूज्यं गुणाविश्कृतं
सेवे श्री-गिरि-मल्लिकार्जुन-महा-लिन्गं शिवालिन्गितं 50

भृन्गीच्चा-नटनोत्कटः करि-मद-ग्राही स्फुरन्-माधव-
आह्लादो नाद-युतो महासित-वपुः पन्चेशुणा चादृतः
सत्-पक्शः सुमनो-वनेशु स पुनः साक्शान्-मदीये मनो
राजीवे भ्रमराधिपो विहरतां श्री शैल-वासी विभुः 51

कारुण्यामृत-वर्शिणं घन-विपद्-ग्रीश्मच्चिदा-कर्मठं
विद्या-सस्य-फलोदयाय सुमनः-संसेव्यम्-इच्चाकृतिम्
नृत्यद्-भक्त-मयूरम्-अद्रि-निलयं चन्चज्-जटा-मंडलं
शंभो वान्चति नील-कंधर-सदा त्वां मे मनश्-चातकः 52

आकाशेन शिखी समस्त फणिनां नेत्रा कलापी नता-
(अ)नुग्राहि-प्रणवोपदेश-निनदैः केकीति यो गीयते
श्यामां शैल-समुद्भवां घन-रुचिं दृश्ट्वा नटंतं मुदा
वेदांतोपवने विहार-रसिकं तं नील-कंठं भजे 53

संध्या घर्म-दिनात्ययो हरि-कराघात-प्रभूतानक-
ध्वानो वारिद गर्जितं दिविशदां दृश्टिच्चटा चन्चला
भक्तानां परितोश बाश्प विततिर्-वृश्टिर्-मयूरी शिवा
यस्मिन्न्-उज्ज्वल-तांडवं विजयते तं नील-कंठं भजे 54

आद्यायामित-तेजसे-श्रुति-पदैर्-वेद्याय साध्याय ते
विद्यानंद-मयात्मने त्रि-जगतः-संरक्शणोद्योगिने
ध्येयायाखिल-योगिभिः-सुर-गणैर्-गेयाय मायाविने
सम्यक् तांडव-संभ्रमाय जटिने सेयं नतिः-शंभवे 55

नित्याय त्रि-गुणात्मने पुर-जिते कात्यायनी-श्रेयसे
सत्यायादि कुटुंबिने मुनि-मनः प्रत्यक्श-चिन्-मूर्तये
माया-सृश्ट-जगत्-त्रयाय सकल-आम्नायांत-सन्चारिणे
सायं तांडव-संभ्रमाय जटिने सेयं नतिः-शंभवे 56

नित्यं स्वोदर-पोशणाय सकलान्-उद्दिश्य वित्ताशया
व्यर्थं पर्यटनं करोमि भवतः-सेवां न जाने विभो
मज्-जन्मांतर-पुण्य-पाक-बलतस्-त्वं शर्व सर्वांतरस्-
तिश्ठस्येव हि तेन वा पशु-पते ते रक्शणीयो(अ)स्म्यहं 57

एको वारिज-बांधवः क्शिति-नभो व्याप्तं तमो-मंडलं
भित्वा लोचन-गोचरोपि भवति त्वं कोटि-सूर्य-प्रभः
वेद्यः किं न भवस्यहो घन-तरं कीदृन्ग्भवेन्-मत्तमस्-
तत्-सर्वं व्यपनीय मे पशु-पते साक्शात् प्रसन्नो भव 58

हंसः पद्म-वनं समिच्चति यथा नीलांबुदं चातकः
कोकः कोक-नद-प्रियं प्रति-दिनं चंद्रं चकोरस्-तथा
चेतो वान्चति मामकं पशु-पते चिन्-मार्ग मृग्यं विभो
गौरी नाथ भवत्-पदाब्ज-युगलं कैवल्य-सौख्य-प्रदं 59

रोधस्-तोयहृतः श्रमेण-पथिकश्-चायां तरोर्-वृश्टितः
भीतः स्वस्थ गृहं गृहस्थम्-अतिथिर्-दीनः प्रभं धार्मिकम्
दीपं संतमसाकुलश्-च शिखिनं शीतावृतस्-त्वं तथा
चेतः-सर्व-भयापहं-व्रज सुखं शंभोः पदांभोरुहं 60

अन्कोलं निज बीज संततिर्-अयस्कांतोपलं सूचिका
साध्वी नैज विभुं लता क्शिति-रुहं सिंधुह्-सरिद्-वल्लभम्
प्राप्नोतीह यथा तथा पशु-पतेः पादारविंद-द्वयं
चेतोवृत्तिर्-उपेत्य तिश्ठति सदा सा भक्तिर्-इति-उच्यते 61

आनंदाश्रुभिर्-आतनोति पुलकं नैर्मल्यतश्-चादनं
वाचा शन्ख मुखे स्थितैश्-च जठरा-पूर्तिं चरित्रामृतैः
रुद्राक्शैर्-भसितेन देव वपुशो रक्शां भवद्-भावना-
पर्यन्के विनिवेश्य भक्ति जननी भक्तार्भकं रक्शति 62

मार्गा-वर्तित पादुका पशु-पतेर्-अंगस्य कूर्चायते
गंडूशांबु-निशेचनं पुर-रिपोर्-दिव्याभिशेकायते
किन्चिद्-भक्शित-मांस-शेश-कबलं नव्योपहारायते
भक्तिः किं न करोति-अहो वन-चरो भक्तावतम्सायते 63

वक्शस्ताडनम्-अंतकस्य कठिनापस्मार सम्मर्दनं
भू-भृत्-पर्यटनं नमत्-सुर-शिरः-कोटीर सन्घर्शणम्
कर्मेदं मृदुलस्य तावक-पद-द्वंद्वस्य गौरी-पते
मच्चेतो-मणि-पादुका-विहरणं शंभो सदान्गी-कुरु 64

वक्शस्-ताडन शन्कया विचलितो वैवस्वतो निर्जराः
कोटीरोज्ज्वल-रत्न-दीप-कलिका-नीराजनं कुर्वते
दृश्ट्वा मुक्ति-वधूस्-तनोति निभृताश्लेशं भवानी-पते
यच्-चेतस्-तव पाद-पद्म-भजनं तस्येह किं दुर्-लभं 65

क्रीडार्थं सृजसि प्रपन्चम्-अखिलं क्रीडा-मृगास्-ते जनाः
यत्-कर्माचरितं मया च भवतः प्रीत्यै भवत्येव तत्
शंभो स्वस्य कुतूहलस्य करणं मच्चेश्टितं निश्चितं
तस्मान्-मामक रक्शणं पशु-पते कर्तव्यम्-एव त्वया 66

बहु-विध-परितोश-बाश्प-पूर-
स्फुट-पुलकान्कित-चारु-भोग-भूमिम्
चिर-पद-फल-कान्क्शि-सेव्यमानां
परम सदाशिव-भावनां प्रपद्ये 67

अमित-मुदमृतं मुहुर्-दुहंतीं
विमल-भवत्-पद-गोश्ठम्-आवसंतीम्
सदय पशु-पते सुपुण्य-पाकां
मम परिपालय भक्ति धेनुम्-एकां 68

जडता पशुता कलन्किता
कुटिल-चरत्वं च नास्ति मयि देव
अस्ति यदि राज-मौले
भवद्-आभरणस्य नास्मि किं पात्रं 69

अरहसि रहसि स्वतंत्र-बुद्ध्या
वरि-वसितुं सुलभः प्रसन्न-मूर्तिः
अगणित फल-दायकः प्रभुर्-मे
जगद्-अधिको हृदि राज-शेखरोस्ति 70

आरूढ-भक्ति-गुण-कुन्चित-भाव-चाप-
युक्तैः-शिव-स्मरण-बाण-गणैर्-अमोघैः
निर्जित्य किल्बिश-रिपून् विजयी सुधींद्रः-
सानंदम्-आवहति सुस्थिर-राज-लक्श्मीं 71

ध्यानान्जनेन समवेक्श्य तमः-प्रदेशं
भित्वा महा-बलिभिर्-ईश्वर नाम-मंत्रैः
दिव्याश्रितं भुजग-भूशणम्-उद्वहंति
ये पाद-पद्मम्-इह ते शिव ते कृतार्थाः 72

भू-दारताम्-उदवहद्-यद्-अपेक्शया श्री-
भू-दार एव किमतः सुमते लभस्व
केदारम्-आकलित मुक्ति महौशधीनां
पादारविंद भजनं परमेश्वरस्य 73

आशा-पाश-क्लेश-दुर्-वासनादि-
भेदोद्युक्तैर्-दिव्य-गंधैर्-अमंदैः
आशा-शाटीकस्य पादारविंदं
चेतः-पेटीं वासितां मे तनोतु 74

कल्याणिनं सरस-चित्र-गतिं सवेगं
सर्वेन्गितज्नम्-अनघं ध्रुव-लक्शणाढ्यम्
चेतस्-तुरन्गम्-अधिरुह्य चर स्मरारे
नेतः-समस्त जगतां वृशभाधिरूढ 75

भक्तिर्-महेश-पद-पुश्करम्-आवसंती
कादंबिनीव कुरुते परितोश-वर्शम्
संपूरितो भवति यस्य मनस्-तटाकस्-
तज्-जन्म-सस्यम्-अखिलं सफलं च नान्यत् 76

बुद्धिः-स्थिरा भवितुम्-ईश्वर-पाद-पद्म
सक्ता वधूर्-विरहिणीव सदा स्मरंती
सद्-भावना-स्मरण-दर्शन-कीर्तनादि
सम्मोहितेव शिव-मंत्र-जपेन विंते 77

सद्-उपचार-विधिशु-अनु-बोधितां
सविनयां सुहृदं सदुपाश्रिताम्
मम समुद्धर बुद्धिम्-इमां प्रभो
वर-गुणेन नवोढ-वधूम्-इव 78

नित्यं योगि-मनह्-सरोज-दल-सन्चार-क्शमस्-त्वत्-क्रमः-
शंभो तेन कथं कठोर-यम-राड्-वक्शः-कवाट-क्शतिः
अत्यंतं मृदुलं त्वद्-अन्घ्रि-युगलं हा मे मनश्-चिंतयति-
एतल्-लोचन-गोचरं कुरु विभो हस्तेन संवाहये 79

एश्यत्येश जनिं मनो(अ)स्य कठिनं तस्मिन्-नटानीति मद्-
रक्शायै गिरि सीम्नि कोमल-पद-न्यासः पुराभ्यासितः
नो-चेद्-दिव्य-गृहांतरेशु सुमनस्-तल्पेशु वेद्यादिशु
प्रायः-सत्सु शिला-तलेशु नटनं शंभो किमर्थं तव 80

कन्चित्-कालम्-उमा-महेश भवतः पादारविंदार्चनैः
कन्चिद्-ध्यान-समाधिभिश्-च नतिभिः कन्चित् कथाकर्णनैः
कन्चित् कन्चिद्-अवेक्शणैश्-च नुतिभिः कन्चिद्-दशाम्-ईदृशीं
यः प्राप्नोति मुदा त्वद्-अर्पित मना जीवन् स मुक्तः खलु 81

बाणत्वं वृशभत्वम्-अर्ध-वपुशा भार्यात्वम्-आर्या-पते
घोणित्वं सखिता मृदन्ग वहता चेत्यादि रूपं दधौ
त्वत्-पादे नयनार्पणं च कृतवान् त्वद्-देह भागो हरिः
पूज्यात्-पूज्य-तरः-स एव हि न चेत् को वा तदन्यो(अ)धिकः 82

जनन-मृति-युतानां सेवया देवतानां
न भवति सुख-लेशः संशयो नास्ति तत्र
अजनिम्-अमृत रूपं सांबम्-ईशं भजंते
य इह परम सौख्यं ते हि धन्या लभंते 83

शिव तव परिचर्या सन्निधानाय गौर्या
भव मम गुण-धुर्यां बुद्धि-कन्यां प्रदास्ये
सकल-भुवन-बंधो सच्चिद्-आनंद-सिंधो
सदय हृदय-गेहे सर्वदा संवस त्वं 84

जलधि मथन दक्शो नैव पाताल भेदी
न च वन मृगयायां नैव लुब्धः प्रवीणः
अशन-कुसुम-भूशा-वस्त्र-मुख्यां सपर्यां
कथय कथम्-अहं ते कल्पयानींदु-मौले 85

पूजा-द्रव्य-समृद्धयो विरचिताः पूजां कथं कुर्महे
पक्शित्वं न च वा कीटित्वम्-अपि न प्राप्तं मया दुर्-लभम्
जाने मस्तकम्-अन्घ्रि-पल्लवम्-उमा-जाने न ते(अ)हं विभो
न ज्नातं हि पितामहेन हरिणा तत्त्वेन तद्-रूपिणा 86

अशनं गरलं फणी कलापो
वसनं चर्म च वाहनं महोक्शः
मम दास्यसि किं किम्-अस्ति शंभो
तव पादांबुज-भक्तिम्-एव देहि 87

यदा कृतांभो-निधि-सेतु-बंधनः
करस्थ-लाधः-कृत-पर्वताधिपः
भवानि ते लन्घित-पद्म-संभवस्-
तदा शिवार्चा-स्तव भावन-क्शमः 88

नतिभिर्-नुतिभिस्-त्वम्-ईश पूजा
विधिभिर्-ध्यान-समाधिभिर्-न तुश्टः
धनुशा मुसलेन चाश्मभिर्-वा
वद ते प्रीति-करं तथा करोमि 89

वचसा चरितं वदामि शंभोर्-
अहम्-उद्योग विधासु ते(अ)प्रसक्तः
मनसाकृतिम्-ईश्वरस्य सेवे
शिरसा चैव सदाशिवं नमामि 90

आद्या(अ)विद्या हृद्-गता निर्गतासीत्-
विद्या हृद्या हृद्-गता त्वत्-प्रसादात्
सेवे नित्यं श्री-करं त्वत्-पदाब्जं
भावे मुक्तेर्-भाजनं राज-मौले 91

दूरीकृतानि दुरितानि दुरक्शराणि
दौर्-भाग्य-दुःख-दुरहंकृति-दुर्-वचांसि
सारं त्वदीय चरितं नितरां पिबंतं
गौरीश माम्-इह समुद्धर सत्-कटाक्शैः 92

सोम कला-धर-मौलौ
कोमल घन-कंधरे महा-महसि
स्वामिनि गिरिजा नाथे
मामक हृदयं निरंतरं रमतां 93

सा रसना ते नयने
तावेव करौ स एव कृत-कृत्यः
या ये यौ यो भर्गं
वदतीक्शेते सदार्चतः स्मरति 94

अति मृदुलौ मम चरणौ-
अति कठिनं ते मनो भवानीश
इति विचिकित्सां संत्यज
शिव कथम्-आसीद्-गिरौ तथा प्रवेशः 95

धैयान्कुशेन निभृतं
रभसाद्-आकृश्य भक्ति-शृन्खलया
पुर-हर चरणालाने
हृदय-मदेभं बधान चिद्-यंत्रैः 96

प्रचरत्यभितः प्रगल्भ-वृत्त्या
मदवान्-एश मनः-करी गरीयान्
परिगृह्य नयेन भक्ति-रज्ज्वा
परम स्थाणु-पदं दृढं नयामुं 97

सर्वालन्कार-युक्तां सरल-पद-युतां साधु-वृत्तां सुवर्णां
सद्भिः-सम्स्तूय-मानां सरस गुण-युतां लक्शितां लक्शणाढ्याम्
उद्यद्-भूशा-विशेशाम्-उपगत-विनयां द्योत-मानार्थ-रेखां
कल्याणीं देव गौरी-प्रिय मम कविता-कन्यकां त्वं गृहाण 98

इदं ते युक्तं वा परम-शिव कारुण्य जलधे
गतौ तिर्यग्-रूपं तव पद-शिरो-दर्शन-धिया
हरि-ब्रह्माणौ तौ दिवि भुवि चरंतौ श्रम-युतौ
कथं शंभो स्वामिन् कथय मम वेद्योसि पुरतः 99

स्तोत्रेणालम्-अहं प्रवच्मि न मृशा देवा विरिन्चादयः
स्तुत्यानां गणना-प्रसन्ग-समये त्वाम्-अग्रगण्यं विदुः
माहात्म्याग्र-विचारण-प्रकरणे धाना-तुशस्तोमवद्-
धूतास्-त्वां विदुर्-उत्तमोत्तम फलं शंभो भवत्-सेवकाः 100

सब्सक्राइब करें
सब्सक्राइब करें
यदि आप रामायण, महाभारत, गीता, वेद तथा पुराण की कथाओं को नियमित रूप से पढ़ना चाहते हैं तो हमारे सदस्य बने। आप सिर्फ नीचे दिए हुए बॉक्‍स में अपना ई-मेल आईडी टाइप करके सबमिट कर दे। यह एकदम मुफ्त है।
आप कभी भी अपना नाम हटा सकते हैं।

टिप्पणियाँ बंद हैं।